|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.275. अध्यायः 275
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेन युधिष्ठिरंप्रति रामोपाख्यानकथनारम्भः ॥ 1 ॥ तत्ररामाद्युत्पत्तिकथनपूर्वकं रावणोत्पत्त्युपोद्धाततया कुबेरोत्पत्तिकथनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-275-0x(2686)(26465)
प्राप्तमप्रतिमं दुःखं रामेण भरतर्षभ।
रक्षसा जानकी तस्य हृता भार्या बलीयसा ॥ 3-275-1(26466)
आश्रमाद्राक्षसेन्द्रेण रावणेन दुरात्मना।
मायामास्थाय तरसा हत्वा गृध्रं जटायुषम् ॥ 3-275-2(26467)
प्रत्याजहार तां रामः सुग्रीवबलमाश्रितः।
बद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैः शरैः ॥ 3-275-3(26468)
युधिष्ठिर उवाच। 3-275-4x(2687)
कस्मिन्नामः कुले जातः किंवीर्यः किंपराक्रमः।
रावणः कस्य पुत्रो वा किं वैरं तस् तेन ह ॥ 3-275-4(26469)
एतन्मे भगवन्सर्वं सम्यगाख्यातुमर्हसि।
`त्वया प्रत्यक्षोदृष्टं यथासर्वमशेषतः।'
श्रोतुमिच्छामि चरितं रामस्याक्लिष्टकर्मणः ॥ 3-275-5(26470)
मार्कण्डेय उवाच। 3-275-6x(2688)
अजोनामाभवद्राजा महानिक्ष्वाकुवंशजः।
तस् पुत्रो दशरथःशश्वत्स्वाध्यायवाञ्छुचिः ॥ 3-275-6(26471)
अभवंस्तस्य चत्वारः पुत्रा धर्मार्थकोविदाः।
रामलक्ष्मणशत्रुघ्ना भरतश्च महाबलः ॥ 3-275-7(26472)
रामस्य माता कौसल्या कैकेयी भरतस्य तु।
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायाः परंतपौ ॥ 3-275-8(26473)
विदेहराजो जनकः सीता तस्यात्मजा विमो।
यां चकार स्वयं त्वष्टा रामस्य महिषीं प्रियाम् ॥ 3-275-9(26474)
एतद्रामस्य ते जन्म सीतायाश्च प्रकीर्तितम्।
रावणस्यापि ते जन्म व्याख्यास्यामि रजनेश्वर ॥ 3-275-10(26475)
पितामहो रावणस्य साक्षाद्देवः प्रजापतिः।
स्वयंभूः सर्वलोकानां प्रभुः स्रष्टा महातपाः ॥ 3-275-11(26476)
पुलस्त्यो नाम तस्यासीन्मानसो दयितः सुतः।
तस्य वैश्रवणो नाम गवि पुत्रोऽभवत्प्रभुः ॥ 3-275-12(26477)
पितरं स समुत्सृज्य पितामहमुपस्थितः।
तस्य कोपात्पिता राजन्ससर्जात्मानमात्मना ॥ 3-275-13(26478)
स जज्ञे विश्रवा नाम तस्यात्मार्धेन वै द्विजः।
प्रतीकाराय सक्रोधस्ततो वैश्रवणस्य वै ॥ 3-275-14(26479)
पितामहस्तुप्रीतात्मा ददौ वैश्रवणस् ह।
अमरत्वं धनेशत्वं लोकपालत्वमेव च ॥ 3-275-15(26480)
ईशानन तथा सख्यं पुत्रं च नलकूवरम्।
राजधानीनिवेसं च लङ्कांरक्षोगणान्विताम् ॥ 3-275-16(26481)
विमानं पुष्पकं नाम कामगं च ददौ प्रभुः।
यक्षाणामाधिपत्यंच राजराजत्वमेव च ॥ 3-275-17(26482)
इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि पञ्चसप्तत्यधिकद्विशततमोऽध्यायः ॥ 275 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-275-2 रावणेन विहायसा इति थ. ध.पाठः ॥ 3-275-9 त्वष्टा योराममहिषीं इति थ. ध. पाठः। त्वष्टा प्रजापतिः स्वयमेव संकल्पेन चकार नतु मैथुनद्वारा। अयोनिजामित्यर्थः ॥ 3-275-12 गवि गोसंज्ञायां भार्यायाम् ॥ 3-275-13 तस्य वैश्रवणस्य कोपात् मां त्यक्त्वा मत्पितरं सेवत इत्यतिज्वलनात्। वैश्रवणं वाधितुं पुलस्त्यएव योगबलेन विश्रवःसंज्ञं देहान्तरं चके इत्यर्थः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|